शैक्षणिक-सत्राय (२०२६-२७) प्रवेशप्रक्रिया प्रारब्धा
विद्याधनं सर्वधनप्रधानम्।
अतिहर्षस्य विषयोऽयं यत् श्री सरस्वती संस्कृत महाविद्यालयः, खन्ना (पञ्जाब) इत्यत्र नूतन-शैक्षणिक-सत्राय (२०२६-२७) प्रवेशप्रक्रिया प्रारब्धा अस्ति। वयं सर्वान् संस्कृतनुरागिणः छात्रान् राष्ट्रभाषायाः देवभाषायाश्च संरक्षणाय संवर्धनाय च आमन्त्रयामः।
उपलब्ध-पाठ्यक्रमाः:
* प्राक्-शास्त्री प्रथमवर्षम् (+1): (उच्चतर-माध्यमिक-कक्षा)
* शास्त्री (B.A.): (त्रि-वर्षीय स्नातक-पाठ्यक्रमः)
महाविद्यालयस्य वैशिष्ट्यानि:
* अनुभवि-विद्वद्-आचार्यैः अध्यापनम्।
* व्याकरण-साहित्य-ज्योतिष-विषयाणां गहनम् अध्ययनम्।
* छात्रावास-व्यवस्थाः (Residential Facility) सुसज्जितः अनुशासितश्च छात्रावासः उपलब्धः अस्ति। (न्यूनतम-शुल्क-सहितम्)
* शैक्षणिक-भ्रमणम् (Educational Tours): छात्राणां व्यावहारिक-ज्ञानाय मानसिक-विकासाय च समय-समये ऐतिहासिक-धार्मिक-स्थलानां 'शैक्षणिक-भ्रमणस्य' आयोजनं क्रियते।
* संस्कृत-वातावरणम्: अनुभवी-विद्वद्-आचार्यैः व्याकरण-ज्योतिष-साहित्यादीनां विषयाणां गहनम् अध्ययनम्।
* क्रीडा-सांस्कृतिक-कार्यक्रमेषु छात्रणां सहभागिता।
* छात्राणां सर्वाङ्गीण-विकासाय उचितं वातावरणम्।
"अस्माकं लक्ष्यं न केवलं पाठ्यपुस्तकीय-ज्ञानं दातुं, अपितु भारतीय-संस्कृति-परम्परयोः रक्षणमपि अस्ति। अतः ये छात्राः संस्कृतक्षेत्रे उज्ज्वलं भविष्यं निर्मातुम् इच्छन्ति, ते शीघ्रमेव महाविद्यालयं आगत्य स्वप्रवेशं सुनिश्चितं कुर्वन्तु।"

सम्पर्क-सूत्रम्:
श्री सरस्वती संस्कृत महाविद्यालयः, खन्ना।
आदेशानुसारम्:
प्राचार्यः - डॉ. मनोज वशिष्ठः
7018341760

शीतकालीन अवकाश

श्री सरस्वती संस्कृत कॉलेज दे रहा है देववाणी संस्कृत सीखने का सुनहरा अवसर यथा शीघ्र प्राक्शास्त्री के द्विवर्षीय पाठ्क्रम में प्रवेश लेकर अपने जीवन को संस्कारयुक्त बनाएं

|
|